||Sundarakanda ||

|| Sarga 30||(Slokas in Devanagari)

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

सुंदरकांड.
अथ त्रिंशस्सर्गः

हनुमानपि विक्रांतः सर्वं शुश्राव तत्त्वतः।
सीतायाः त्रिजटायाश्च राक्षसीनां तर्जनम्॥1||

अवेक्षमाण स्तां देवीं देवतामिव नंदने।
ततो बहुविधां चिंतां चिंतयामास वानरः॥2||

यां कपीनां सहस्राणि सुबहून्ययुतानि च।
दिक्षु सर्वासु मार्गंते सेय मासादिता मया॥3||

चारेण तु सुयुक्तेन शत्रो श्शक्ति मवेक्षता।
गूढेन चरता तावत् अवेक्षित मिदं मया॥4||

राक्षसानां विशेषश्च पुरीचेयमवेक्षिता।
राक्षसाधिपतेरस्य प्रभावो रावणस्य च॥5||

युक्तं तस्याsप्रमेयस्य सर्व सत्त्व दयावतः।
समश्वासयितुं भार्यां पतिदर्शन कांक्षिणीम्॥6||

अहमाश्वासया म्येनां पूर्णचंद्रनिभाननां।
अदृष्टदुःखां दुःखार्तां दुःख स्यांत मगच्छतीम्॥7||

यद्यप्यहं इमां देवीं शोकोपहतचेतसां।
अनाश्वास्य गमिष्यामि दोषवत् गमनं भवेत्॥8||

गतेहि मयि तत्रेयं राजपुत्री यशस्विनी।
परित्राण मविंदंती जानकी जीवितं त्यजेत्॥9||

मया च स महाबाहुः पूर्णचंद्र निभाननः।
समश्वासयितुं न्याय्यः सीतादर्शनलालसः॥10||

निशाचरीणां प्रत्यक्षं अनर्हं चापि भाषणम्।
कथं नु खलु कर्त्वव्यं इदं कृच्छगतो ह्यहम्॥11||

अनेन रात्रि शेषेण यदि नाश्वास्यते मया।
सर्वथा नास्ति संदेहः परित्यक्षति जीवितम्॥12||

रामश्च यदि पृच्छेन्मां किं मां सीताऽब्रवीत् वचः।
किं अहं तं प्रतिब्रूयां असंभाष्य सुमध्यमाम्॥13||

सीता संदेशरहितं मां इतः त्वरया गतम्।
निर्दहे दपि काकुत्‍स्थः क्रुद्धः तीव्रेण चक्षुषा ॥14||

यदि चो द्योजयिष्यामि भर्तारं राम कारणात्।
व्यर्थमागमनं तस्य ससैन्यस्य भविष्यति॥15||

अंतरं त्वहमासाद्य राक्षसीनामिह स्थितः।
शनैराश्वासयिष्यामि संताप बहुळामिमाम्॥16||

अहं त्वतितनुश्चैव वानरश्च विशेषतः।
वाचं चो दाहरिष्यामि मानुषी मिह संस्कृताम्॥17||

यदि वाचं प्रदास्यामि द्विजाति रिव संस्कृताम्।
रावणं मन्यमाना मां सीता भीता भविष्यति॥18||

वानरस्य विशेषेण कथं स्यादभिभाषणम्।
अवश्यमेव वक्तव्यं मानुषं वाक्य मर्थवत्॥19||

मया सांत्वयितुं शक्या नान्यथेय मनिंदिता।
सेय मालोक्य मे रूपं जानकी भाषितं तथा॥20||

रक्षोभि स्त्रासिता पूर्वं भूय स्त्रासं गमिष्यति।
ततो जात परित्रासा शब्दं कुर्यान् मनस्विनी॥21||

जानमाना विशालाक्षी रावणं कामरूपिणम्।
सीताया च कृते शब्दे सहसा राक्षसी गणाः॥22||

नानाप्रहरणो घोरः समेयादंतकोपमः।
ततो मां संपरिक्षिप्य सर्वतो विकृताननाः॥23||

वधे च ग्रहणे चैव कुर्युर्यत्नं यथाबलम्।
गृह्य शाखाः प्रशाखाश्च स्कंधां श्चोत्तमशाखिनाम्॥24||

दृष्ट्वा विपरिधावंतं भवेयुर्भयशंकिताः।
मम रूपं च संप्रेक्ष्य वने विचरतो महत्॥25||

राक्षस्यो भयवित्रस्ता भवेयुर्विकृताननः।
ततः कुर्युस्समाह्वानं राक्षस्यो रक्षसामपि॥26||

राक्षसेंद्र नियुक्तानां राक्षसेंद्र निवेशने ।
ते शूलशक्ति निस्त्रिंश विविधायुधपाणयः॥27||

अपतेयुर्विमर्देऽस्मिन् वेगेनोद्विग्नकारिणः।
संरुद्धस्तैस्तु परितो विधमन् रक्षसां बलम्॥28||

शक्नुयां नतु संप्राप्तं परं पारं महोदधेः।
मां वा गृह्णीयुराप्लुत्य बहव श्शीघ्रकारिणः॥29||

स्यादियं चा गृहीतार्था मम च ग्रहणं भवेत् ।
हिंचाभिरुचयो हिंस्युरिमां वा जनकात्मजाम्॥30||

विपन्नं स्यात्ततः कार्यं रामसुग्रीवयोरिदम्।
उद्देशे नष्टमार्गेऽस्मिन् राक्षसैः परिवारिते॥31||

सागरेण परिक्षिप्ते गुप्ते वसति जानकी।
विशस्ते निगृहीते वा रक्षोभिर्मयि संयुगे॥32||

नान्यं पश्यामि रामस्य साहाय्यं कार्यसाधने।
विमृशंश्च न पश्यामि यो हते मयि वानरः॥33||

शतयोजनविस्तीर्णं लंघयेत महोदधिम्।
कांमं हंतुं समर्थोऽस्मि सहस्राण्यपि रक्षसाम्॥34||

न तु शक्ष्यामि संप्राप्तुं परं पारं महोदधेः।
असत्यानि च युद्धानि संशयो मे न रोचते॥35||

कश्च निस्संशयं कार्यं कुर्यात् प्राज्ञः ससंशयम्
प्राणत्यागश्च वैदेह्या भवेत् अनभिभाषणे॥36||

एष दोषो महान् हि स्या न्मम सीताभिभाषणे।
भूता श्चार्था विनश्यंति देशकालविरोधिताः॥37||

विक्लबं दूतमासाद्य तमः सूर्योदये यथा।
अर्थानर्थांतरे बुद्धिः निश्चितापि न शोभते॥38||

घातयंति हि कार्याणि दूतां पंडितमानिनः।
न विनश्येत् कथं कार्यं वैक्लब्यं न कथं भवेत् ॥39||

लंघनं च समुद्रस्य कथं नु वृथाभवेत्।
कथं नु खलु वाक्यं मे शृणुयान्नो द्विजेत वा ॥40||

इति संचिंत्य हनुमांश्चकार मतिमान्मतिम्।
रामं अक्लिष्टकर्माणं स्वबंधु मनुकीर्तयन्॥41||

नैना मुद्वेजयिष्यामि तद्बंधुगत मानसाम्।
इक्ष्वाकूणां वरिष्टस्य रामस्य विदितात्मनः॥42||

शुभानि धर्मयुक्तानि वचनानि समर्पयन्।
श्रावयिष्यामि सर्वाणि मधुरां प्रब्रुवन् गिरम्॥43||
श्रद्दास्यति यथा हीयं तथा सर्वं समादधे॥44||

इति स बहुविधं महानुभावो
जगति पतेः प्रमदामवेक्षमाणः।
मधुरमवितथं जगाद वाक्यं
द्रुमविटपांतर मास्थितो हनूमान्॥45||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुंदरकांडे त्रिंशस्सर्गः॥

||ओम् तत् सत्॥

|| Om tat sat ||